Answers are grounded in this paper and cite their sources.
अस्मिन् शोधपत्रे भारतीयवैदिकदर्शनस्य महासरितः विविधाः उपधाराः, अर्थात् वेदान्तसम्प्रदायाः, विवेचिताः सन्ति। वैदिकवाङ्मये जीवस्य ब्रह्मणश्च सम्बन्धः प्रधानविषयः अस्ति; व्यासाचार्यस्य "जन्माद्यस्य यतः" इति ब्रह्मलक्षणाद् एव विविधदार्शनिकाः स्वस्वमतानि निरूपितवन्तः। अत्र शङ्कराचार्यस्य अद्वैतवादः, भास्कराचार्यस्य भेदाभेदवादः, रामानुजाचार्यस्य विशिष्टाद्वैतवादः, मध्वाचार्यस्य द्वैतवादः, निम्बार्काचार्यस्य द्वैताद्वैतवादः, श्रीकण्ठाचार्यस्य शैवविशिष्टाद्वैतवादः, रेवणसिद्धाचार्यस्य वीरशैवविशिष्टाद्वैतवादः, वल्लभाचार्यस्य शुद्धाद्वैतवादः, विज्ञानभिक्षोः अविभागाद्वैतवादश्च चैतन्यमहाप्रभोः अचिन्त्यभेदाभेदवादश्च विशेषतया विवृताः। शोधस्य मुख्यम् उद्दिष्टम् अस्ति यत् एतेषां सम्प्रदायानां जीव–जगत्–ब्रह्मत्रयस्य सम्बन्धे भिन्नाः दृष्टयः कथं निरूपिताः, तथा ताः कथं ज्ञान–कर्म–भक्तिमार्गैः मोक्षसाधनाय उपकुर्वन्ति इति। अद्वैतवादे जीवब्रह्मणोः ऐक्यम्, विशिष्टाद्वैते ब्रह्मणः चिदचिद्विशिष्टता, द्वैते पञ्चभेदस्य वास्तविकता, द्वैताद्वैते भेदाभेदस्य समन्वयः, शुद्धाद्वैते ब्रह्मणः लीलारूपजगत्, अचिन्त्यभेदाभेदे च शक्तिशक्तिमतोः अचिन्त्यसम्बन्धः प्रतिपादिताः। सर्वाणि उपनिषदाधारितानि दर्शनानि कर्मबन्धनात् मुक्तेः साधनानि सन्ति। तेषां विविधता विरोधरूपा नास्ति, अपि तु ज्ञानकर्मभक्तीनां क्रमिकविकासरूपा उपधारारूपा एव; सर्वेषां सामान्यं लक्ष्यं ब्रह्मानुभूतिः, आत्मज्ञानञ्च मोक्षः अस्ति। अत एव उक्तम्—"वादे वादे जायते तत्त्वबोधः" इति।
No takes yet. Share an insight, caveat, or question.
डॉ. मनुदेवः (2026) studied this question.
Synapse has enriched 8 closely related papers on similar clinical questions. Consider them for comparative context: